[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]
भ्वादिगणाः१०३५ धातवः (1035 bhvadigana roots)
२००६-०९-०१ शुक्रवासरः (2006-09-01 Friday)
भ्वादिगणे १०३५ धातवः सन्ति। एषः गणः प्रथमः गणः अपि कथ्यते। पाणिनिव्याकरणे दश गणाः सन्ति। दशगणेषु सकलाः धातवः १९७० सन्ति। भ्वादिगणस्य प्रथमः धातुः भू धातुः अस्ति। अस्मिन् भ्वादिगणे शप् विकरणः भवति। धातुः तिङ् प्रत्ययः मध्ये शप् (अ) योज्यते। यथा - ति तः अन्ति, अति अतः अन्ति इति भवन्ति। धातवः अन्तिमं स्वरं गुणः भवति। गुणः इति इ, ई ए भवति. उ, ऊ ओ भवति, ऋ, ॠ अर् भवति। उपधा (एकोन-अन्तिमः वर्णः) यदि इकारः उकारः ऋकारः तर्हि क्रमशः ए, ओ, अर् भवन्ति। अन्तिमस्य गुणस्य ए अय् भवति ओ अव् भवति। यथा
भू -> भू + शप् + ति, -> भो + अ + ति -> भव् + अ + ति -> भवति।
नि -> नि + शप् + ति -> ने + अ + ति -> नय् + अ + ति -> नयति।
क्रीड् -> क्रीडति (उपद्दा ई अस्ति तस्मात् तस्मिन् रूपे एव तिष्ठति), मुद् -> मोदते ( उ उपधा अस्ति), वृत् -> वर्तते (ऋ उपधा अस्ति)।
[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]