[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]


शुचिता सिडनीनगरं गता (Shuchita went to Sydney)

२००९-०३-१३ शुक्रवासरः (2009-03-13 Friday)

आवयोः कन्या शुचिता तस्याः मित्रेण सह सिडनीनगरम् एकं सङ्गीतकार्यक्रमं दर्शनाय गता। सा रविवासरे सायंकाले प्रत्यागमिष्यति। सङ्गीतकार्यक्रमः दर्शनाय कथं इयत् दूरं गन्तव्यम् अहं न जानामि। कालस्य धनस्य अपि प्रचुरः व्ययः भविष्यति किन्तु सा न अवगच्छति। अहं यदा सम्मेलने विदेशं गच्छामि तदा गृहात् मया सह भोजनं नयामि। यावत् धनं सा सङ्गीतकार्यक्रमाय व्ययीकरिष्यति तावत् अहं सप्ताहात्मके सम्मेलने अपि न व्ययीकरोमि यतो हि मम विश्वविद्यालयं मम व्ययं यच्छति।

 


[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]