[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]

लालजीवर्यः (Shri Lalji)

२०१०-०५-२९ शनिवासरः (2010-05-29 Saturday)

लालजीवर्यः अस्माकं गृहस्य नातिदूरे निवसति। अद्य सायंकाले अहं मीतया सह तयोः गृहं भोजनाय अगच्छम्। दिव्यांशुः सिडनीनगरे आसीत्, शुचिता अभ्यासार्थं विश्वविद्यालये, ज्वलिता स्वमित्रस्य गृहे च। भोजनं सार्धसप्तवादने आरब्धं रात्रौ एकादशवादने समाप्तम्। लालजीवर्यस्य भार्या अनेकानि सुस्वादूनि भोज्यपदार्थानि अपचत्।

[ Up | Sentences | Dhaatus | Vibhakti | Misc | Site Index | Learn Sanskrit | Home Personal | Home ]